Monday, October 19, 2009

Vishvanathashtakam... विश्वनाथाष्टकम् :-)


1) गङ्गातरंगरमणीयजटाकलापं 
गौरीनिरन्तरविभूषितवामभागम् |
नारायणप्रियमनंगमदापहारं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
2) वाचामगोचरमनेकगुणस्वरूपं 
वागीशविष्णुसुरसेवितपादपीठम् | 
वामेनविग्रहवरेणकलत्रवन्तं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
3) भूताधिपं भुजगभूषणभूषितांगं  
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् | 
पाशांकुशाभयवरप्रदशूलपाणिं  
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
4) शीतांशुशोभितकिरीटविराजमानं 
भालेक्षणानलविशोषितपंचबाणम् | 
नागाधिपारचितभासुरकर्णपूरं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
5) पंचाननं दुरितमत्तमतङ्गजानां 
नागान्तकं दनुजपुंगवपन्नगानाम् | 
दावानलं मरणशोकजराटवीनां 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
6) तेजोमयं सगुणनिर्गुणमद्वितीयं 
आनन्दकन्दमपराजितमप्रमेयम् | 
नागात्मकं सकलनिष्कलमात्मरूपं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
7) रागादिदोषरहितं स्वजनानुरागं 
वैराग्यशान्तिनिलयं गिरिजासहायम् | 
माधुर्यधैर्यसुभगं गरलाभिरामं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
8) आशां विहाय परिहृत्य परस्य निन्दां 
पापे रतिं च सुनिवार्य मनः समाधौ | 
आदाय हृत्कमलमध्यगतं परेशं
 वाराणसीपुरपतिं भज विश्वनाथम् ||
 
9) वाराणसीपुरपतेः स्तवनं शिवस्य 
व्याख्यातमष्टकमिदं पठते मनुष्यः | 
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं 
सम्प्राप्य देहविलये लभते च मोक्षम् ||
 
10) विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ | 
शिवलोकमवाप्नोति शिवेन सह मोदते || 

|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम् || 

No comments:

Post a Comment